3. उपहव्यः - இது अग्निष्टोमविकृति. இதில் अश्वः श्यामो रुक्मललाटो दक्षिणा; स ब्रह्मणे देयः என்று வாக்கியங்களிருக்கின்றன. இதில் சொன்ன தக்ஷிணையே கொடுக்கவேண்டியது. வேறு தக்ஷிணை சாஸ்திரீயமானதில்லையென்று தீர்மானம் (ताण्ड्य.ब्रा.अध्या-18, कण्डि-1; अध्या-10, पा-3,अधि-18).
ताण्ड्य.ब्रा.अध्या-18
1 - सप्तदशोऽग्निष्टोमः
2 - देवाश्च वा असुराश्च प्रजापतेर्द्वयाः पुत्रा आसंस्तेऽसुरा भूयांसो बलीयांस आसन्कनीयांसो देवास्ते देवाः प्रजापतिं उपाधावन्स एतं उपहव्यं अपश्यत्
3 - स ऐक्षत यन्निरुक्तं आहरिष्याम्यसुरा मे यज्ञं हनिष्यन्तीति सोऽनिरुक्तं आहरत्
4 - स उत्तमे स्तोत्रेऽऽदेवो वो द्रविणोदाऽऽ इति देवानभिपर्यावर्तत
5 - ततो देवा अभवन्परासुराः
6 - भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
7 - अथो खल्वाहुःऽऽयज्ञायज्ञा वो अग्नयऽऽ इत्येव कार्यम्
8 - अग्निर्वै सर्वा देवतास्तेन न देवतानां कां चनान्तरेति
9 - इन्द्रो यतीन्सालावृकेयेभ्यः प्रायच्छत्तं अश्लीला वागभ्यवदत्स प्रजापतिं उपाधावत्तस्मा एतं उपहव्यं प्रायच्छत्तं विश्वे देवा उपाह्वयन्त तस्मादुपहव्यः
10 - अभिशस्यमानं याजयेत्
11 - देवता वा एतं परिव्रजन्ति यं अनृतं अभिशंसन्ति देवता एवास्यान्नं आदयन्ति
12 - तस्य पूतस्य स्वदितस्य मनुष्या अन्नं अदन्ति
13 - ग्रामकामो यजेत
14 - मारुती भवति मरुतौ वै देवानां विशो विशं एवास्मा अनुनियुनक्त्यनपक्रामुकास्माद्विड्भवति
15 - पशुकामो यजेत पौषी भवति
16 - पशवो वै पूषा पशूनेवावरुन्धे
17 - वैश्वदेवी भवति विश्वे ह्येनं देवा उपाह्वयन्त
18 - बृहत्सामा भवति
19 - प्रजापतिर्ह्येनं इन्द्राय प्रायच्छत्
20 - अश्वः श्यवो दक्षिणा
21 - स ह्यनिरुक्तः
22 - स ब्रह्मणे देयः
23 - ब्रह्मा वा ऋत्विजां अनिरुक्तः स्वेनैवैनं तद्रूपेण समर्धयति
24 - यावद्ध वै कुमारे सद्यो जात एनो नास्मिंस्तावच्च नैनो भवति य एवं वेद
कण्डि-1; अध्या-10, पा-3,अधि-18 - उपहव्ये श्यावाश्वेनाखिलदक्षिणाबाधाधिकरणम्
10.3.18.65 - धेनुवच्चाश्वदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य ॥
10.3.18.66 - एके तु कर्तृसंयोगात् स्रग्वत्तस्य लिङ्गविशेषेण ॥
10.3.18.67 - अपि वा तदधिकाराद्धिरण्यवद्विकारः स्यात् ॥